त्रैमासिक परीक्षा 2026 – कक्षा 11 संस्कृत मॉडल /प्रैक्टिस प्रश्न पत्र . ब्लू प्रिंट आधारित

त्रैमासिक परीक्षा 2026 – 27 हेतु कक्षा 11 संस्कृत मॉडल / प्रैक्टिस प्रश्न पत्र दिया गया है जो कि ब्लू प्रिंट पर आधारित है . इसमें महत्वपूर्ण प्रश्नों का समावेशन किया गया है . विद्यार्थी अवश्य अभ्यास करें

कक्षा-11 संस्कृत त्रैमासिक परीक्षा अभ्यास प्रश्न-पत्र

त्रैमासिक परीक्षा 2026-27

आदर्श अभ्यास प्रश्न-पत्र

कक्षा – 11वीं | विषय – संस्कृतम्

समय:- 03 होरा: (घंटे)पूर्णाङ्काः: 80
निर्देशाः (निर्देश):
1. सर्वे प्रश्नाः अनिवार्यः सन्ति। (सभी प्रश्न अनिवार्य हैं।)
2. प्रश्नानां सम्मुखे अङ्काः प्रदत्ताः सन्ति। (प्रश्नों के सम्मुख अंक दिए गए हैं।)
3. प्रश्न क्र. 1 तः 5 पर्यन्तं वस्तुनिष्ठप्रश्नाः सन्ति। (प्रश्न 1 से 5 तक वस्तुनिष्ठ प्रश्न हैं।)
खण्ड ‘क’ – वस्तुनिष्ठ-प्रश्नाः (अङ्काः – 32)
(अङ्काः 6) प्र. 1. उचितं विकल्पं चित्वा लिखत (प्रत्ययः + अव्ययम्) :-
(i) ‘गत्वा’ इति पदे कः प्रत्ययः अस्ति?
(अ) क्त्वा
(ब) ल्यप्
(स) तुमुन्
(द) क्त
(ii) ‘हसितुम्’ इति पदे कः प्रत्ययः विद्यते?
(अ) क्तवतु
(ब) तुमुन्
(स) शतृ
(द) शानच्
(iii) ‘विहस्य’ इति पदे प्रकृत-प्रत्ययौ स्तः –
(अ) वि + हस् + क्त्वा
(ब) वि + हस् + ल्यप्
(स) वि + हस् + तुमुन्
(द) वि + हस् + घञ्
(iv) अधोलिखितेषु अव्ययपदं किम् अस्ति?
(अ) रामः
(ब) सदा
(स) पठति
(द) नदी
(v) ‘अत्र’ इति अव्ययपदस्य अर्थः कः?
(अ) वहाँ
(ब) कहाँ
(स) यहाँ
(द) कब
(vi) “अहं श्वः गमिष्यामि” इति वाक्ये अव्ययपदं किम्?
(अ) अहम्
(ब) श्वः
(स) गमिष्यामि
(द) कोऽपि नास्ति
(अङ्काः 6) प्र. 2. युगपद-मेलनम् (सही जोड़ी) कुरुत (समासः + सन्धिः) :-
‘क’ स्तम्भः‘ख’ स्तम्भः
(i) हिमालयः(अ) विसर्ग सन्धिः
(ii) यद्यपि(ब) द्विगु समासः
(iii) नमस्ते(स) दीर्घ स्वर सन्धिः
(iv) पञ्चवटी(द) द्वन्द्व समासः
(v) प्रतिदिनम्(ध) यण् सन्धिः
(vi) पितरौ(न) अव्ययीभाव समासः
(अङ्काः 7) प्र. 3. कोष्ठके प्रदत्तशब्दैः रिक्तस्थानानि पूरयत (धातुरूपम् + उपसर्गः) :-
(i) ‘पठति’ इति पदे ……………….. लकारः अस्ति। (लट् / लोट्)
(ii) ‘अभवत्’ इति पदे कः धातुः अस्ति? ……………….. (भू / पठ्)
(iii) ‘गच्छामि’ इति पदे ……………….. पुरुषः अस्ति। (उत्तमपुरुषः / प्रथमपुरुषः)
(iv) ‘लभेते’ इति रूपं ……………….. पद्यात्मकं अस्ति। (आत्मनेपदम् / परस्मैपदम्)
(v) ‘अनुगच्छति’ इति पदे उपसर्गः ……………….. अस्ति। (अनु / प्रति)
(vi) ‘प्राचार्यः’ इति पदे उपसर्गः ……………….. अस्ति। (प्र / परा)
(vii) संस्कृत भाषायाम् आहत्य ……………….. उपसर्गाः सन्ति। (द्वाविंशतिः / एकविंशतिः)
(अङ्काः 6) प्र. 4. शुद्धवाक्यानां समक्षं ‘आम्’ अशुद्धवाक्यानां समक्षं ‘न’ इति लिखत (विशेषण-विशेष्य-कारकाधारितम्) :-
(i) ‘धार्मिकः पुरुषः’ इत्यत्र ‘धार्मिकः’ विशेषणपदं अस्ति। [       ]
(ii) ‘श्वेतः अश्वः धावति’ इत्यत्र ‘अश्वः’ विशेषणपदं अस्ति। [       ]
(iii) ‘कृशः कायः’ इत्यत्र ‘कायः’ विशेष्यपदं अस्ति। [       ]
(iv) ‘रामाय नमः’ इति वाक्ये चतुर्थी विभक्तिः अस्ति। [       ]
(v) ‘सः पादेन खञ्जः’ इत्यत्र द्वितीया विभक्तिः अस्ति। [       ]
(vi) अपादान कारके पञ्चमी विभक्तिः भवति। [       ]
(अङ्काः 7) प्र. 5. एकपदेन/एकवाक्येन उत्तरं लिखत (पर्यायः + विलोमः + एकपदेन उत्तरम्) :-
(i) ‘सूर्यः’ इति शब्दस्य एकं पर्यायपदं लिखत।
(ii) ‘कमलम्’ इति पदस्य पर्यायपदं किम्?
(iii) ‘सत्यम्’ इति पदस्य विलोमपदं लिखत।
(iv) ‘विद्वान्’ इति शब्दस्य विलोमपदं किम्?
(v) कः सर्वदा वन्द्यः भवति?

(vi) मानवाः कुत्र सुरक्षिताः तिष्ठन्ति?
(vii) वृक्षस्य मूले कः वसति स्म?

खण्ड ‘ख’ – लघुत्तरात्मक-प्रश्नाः (अङ्काः – 20)

(2 × 5 = 10)
प्र. 6 तः 10. अधोलिखितानां प्रश्नानां उत्तराणि संस्कृतभाषायाम् पूर्णवाक्येन लिखत (पाठगत प्रश्नोत्तरम् – कोऽपि पञ्च) :-

प्र. 6. स्वर्णकाकः कां अखादत्?
प्र. 7. जीमूतकेतुः कस्य पुत्रः आसीत्?
प्र. 8. जटायुः रावणं किमब्रवीत्?
प्र. 9. कालः कस्य रसं पिबति?
प्र. 10. पुरुषः सिकताभिः किं करोति?
प्र. 11. सरसा रसाला कदा लसन्ति?

(अङ्काः 2)
प्र. 11. अधोलिखितवाक्येषु कः कं प्रति कथयति (किसने किससे कहा) :-

“तात! पश्यामि सिकताभिरेव सेतुं कर्तुं प्रयतसे।”

(अङ्काः 2)
प्र. 12. स्थूलाक्षराणि पदानि आधृत्य प्रश्ननिर्माणं कुरुत (कोऽपि द्वौ) :-

(i) मोदकानि पूजार्थं रचितानि आसन्।
(ii) चटका स्वकर्मणि व्यग्रा आसीत्।

(अङ्काः 2)
प्र. 13. स्वपाठ्यपुस्तकात् कण्ठस्थीकृतं एकं सुभाषितं (श्लोकं) लिखत यद् अस्मिन् प्रश्नपत्रे न स्यात्।

(2 × 2 = 4)
प्र. 14 तथा 15. संस्कृत-साहित्याधारितं संक्षिप्तं प्रश्नोत्तरं लिखत :-

प्र. 14. आदिकाव्यं किम् उच्यते? कश्च तस्य रचयिता?
प्र. 15. महाकवि कालिदासस्य कयोः द्वयोः महाकाव्ययोः नाम लिखत।

खण्ड ‘ग’ – त्रिअङ्कात्मक-प्रश्नाः (अङ्काः – 12)

(अङ्काः 3)
प्र. 16. अधोलिखितं गद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत :-

अस्ति गोदावरीतीरे विशालः शाल्मलीतरुः। तत्र नानादिशिदेशादागत्य रात्रौ पक्षिणो निवसन्ति। अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि, लघुपतनकनामा वायसः प्रबुद्धः कृतान्तमिव द्वितीयं आयान्तं व्याधमपश्यत्।

(i) गोदावरीतीरे कः आसीत्?
(ii) रात्रौ पक्षिणः कुत्र निवसन्ति स्म?
(iii) वायसस्य नाम किम् आसीत्?

(अङ्काः 3)
प्र. 17. अधोलिखितं पद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत :-

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

तस्मात्तदेव वक्तव्यं वचने का दरिद्रता।।

(i) के प्रियवाक्यप्रदानेन तुष्यन्ति?
(ii) अस्माभिः किं वक्तव्यम्?
(iii) कुत्र दरिद्रता न कर्तव्या?

(अङ्काः 3)
प्र. 18. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत :-

चन्दनदासः: – जयतु जयत्वार्यः।

चाणक्यः: – श्रेष्ठिन्! स्वागते ते। इदमसनं, तत्र स्थातव्यम्।

चन्दनदासः: – यदार्य आज्ञापयति। (उपाविशत्)

चाणक्यः: – अपि संव्यवहाराणां वृद्धिः लाभाश्च वर्धन्ते?

(i) कस्य जयं चन्दनदासः इच्छति?
(ii) चाणक्यः चन्दनदासाय किं यच्छति?
(iii) ‘उपाविशत्’ इति पदे कः लकारः अस्ति?

(अङ्काः 3)
प्र. 19. पाठगतरिक्त-स्थानपूर्तिं कुरुत (कोऽपि त्रयः) :-

(i) वृत्तं ……………….. संरक्षेत। (वित्तेन / यत्नेन)
(ii) माता भूमिः पुत्रोऽहं ………………..। (पृथिव्याः / आकाशस्य)
(iii) गुणाः ……………….. गुणा भवन्ति। (गुणज्ञेषु / दोषेषु)

खण्ड ‘घ’ – दीर्घोत्तरात्मक-प्रश्नाः (अङ्काः – 16)

(अङ्काः 4)
प्र. 20. अधोलिखितं अपठितगद्यांशं सम्यक् पठित्वा प्रश्नानां उत्तराणि लिखत :-

परिश्रमः मानवजीवनस्य आधारः अस्ति। उद्यमेन एव कार्याणि सिध्यन्ति, न तु मनोरथैः। यथा सुप्तस्य सिंहस्य मुखे मृगाः स्वतः न प्रविशन्ति। संसारे ये केऽपि पुरुषाः महान्तः अभवन्, ते सर्वे परिश्रमेण एव उन्नतिं प्राप्तवन्तः। छात्रजीवने अपि परिश्रमस्य महती आवश्यकता अस्ति। यः छात्रः आलस्यं त्यक्त्वा श्रमं करोति, सः परीक्षायां सफलतां लभते।

(i) मानवजीवनस्य आधारः कः अस्ति?
(ii) कार्याणि कथं सिध्यन्ति?
(iii) कस्य मुखे मृगाः स्वतः न प्रविशन्ति?
(iv) अस्य गद्यांशस्य उपर्युक्तं शीर्षकं लिखत।

(अङ्काः 4)
प्र. 21. प्रदत्तसंकेताधारितम् अनुच्छेद-लेखनम् / कथालेखनम् कुरुत :-

‘परोपकारः’ अथवा ‘मम विद्यालयः’ इति विषयं अधिकृत्य संस्कृते चत्वारि वाक्यानि लिखत।

(अङ्काः 4)
प्र. 22. रुग्णताकारणात् (बीमारी के कारण) प्राचार्यं प्रति त्रयाणां दिवसानां अवकाशार्थं प्रार्थनापत्रं लिखत।

अथवा (OR)

स्वमित्रं प्रति जन्मदिवसोत्सवे आमन्त्रणार्थं एकं पत्रं संस्कृते लिखत।

(अङ्काः 4)
प्र. 23. महाकविः ‘कालिदासः’ अथवा ‘बाणभट्टः’ इति कवेः साहित्यिकं परिचयं निम्नलिखित बिन्दुषु लिखत :-

(अ) द्वे कृती (दो रचनाएँ)

(ब) भाषा-शैली

(स) साहित्ये स्थानम्

आपके लिए यह भी उपयोगी हो सकते हैं –

शैक्षणिक सत्र 2026-27 के लिए हिन्दी माद्यम के छात्रों के सभी प्रकार की शैक्षणिक सामग्री एम् पी बोर्ड स्टडी डाट काम ( https://mpboardstudy.com/) पर उपलब्ध है जबकि अंग्रेजी माध्यम के लिए एम् पी बोर्ड इंग्लिश मीडियम डाट काम ( https://mpboardenglishmedium.com/) देखें . विमर्श पोर्टल डाट इन ( https://vimarshportal.in/) भी एक उपयोगी वेबसाईट है .

व्यावसायिक शिक्षा के लिए वोकेशनल एजुकेशन डाट इन ( https://vocationaleducation.in/)

लेटेस्ट अपडेट के लिए whats app ग्रुप में जुड़ें https://chat.whatsapp.com/KbKnl3RHBAn7ARGJARsQaI

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top